भवान्यष्टकम्

durga.gif

न तातो न माता, न बन्धुर्न दाता, न पुत्रो न पुत्री न भृत्यो न भर्ता।

न जाया न विद्या न वृत्तिर्ममैव, गतिस्त्वं, गतिस्त्वं त्वमेका भवानी ।।1।।

भवाब्धावपारे महादुःखभीरू, प्रपात प्रकामी प्रलोभी प्रमत्तः।

कुसंसारपाशप्रबद्धः सदाहं, गतिस्त्वं, गतिस्त्वं त्वमेका भवानी ।।2।।

न जानामि दानं न च ध्यान योगं, न जानामि तंत्रं न च स्त्रोत्र मंन्त्रम् ।

न जानामि पूजां न च न्यासयोगं, गतिस्त्वं, गतिस्त्वं त्वमेका भवानी ।।3।।

न जानामि पुण्यं न जानामि तीर्थं, न जानामि मुक्तिं लयं वा कदाचित् ।

न जानामि भक्तिं व्रतं वापि मातः, गतिस्त्वं, गतिस्त्वं त्वमेका भवानी ।।4।।

कुकर्मी कुसंगी कुबुद्धि कुदासः, कुलाचारहीनः कदाचारलीनः ।

कुदृष्टि कुवाक्यः प्रबंधः सदाहं, गतिस्त्वं, गतिस्त्वं त्वमेका भवानी ।।5।।

ब्रजेशं रमेशं महेशं सुरेशं, दिनेशं निशीथेश्वरं वा कदाचित् ।

न जानामि चान्यत् सदाहं शरण्ये, गतिस्त्वं, गतिस्त्वं त्वमेका भवानी ।।6।।

विवादे विषादे प्रमादे प्रवासे, जले चानले पर्वते शत्रुमध्ये ।

अरण्ये, शरण्ये सदा मां प्रपाहि, गतिस्त्वं, गतिस्त्वं त्वमेका भवानी ।।7।।

अनाथो दरिद्रो जरारोगयुक्तो, महाक्षीणदीनः सदा जाड्यवक्त्रः ।

विपत्तौ प्रविष्टः प्रणष्टः सदाहं, गतिस्त्वं, गतिस्त्वं त्वमेका भवानी ।।8।।

।। अलख निरंजन ।।

There are no comments on this post

Leave a Reply